कश्मीरी शारदा लिपि: संक्षिप्त परिचयं इतिहासं वा

भारतस्य प्रत्येक प्रान्ते काल गणनायाः प्रचलनं भवति। कुत्र विक्रमसम्वत्‌ कुत्र च शकसम्वतस्य आधारेण पंचाङ्गस्य गणनां भवती। केवलं कश्मीरं इदृक्‌ प्रान्तः यत्र ज्योतिषाचार्या: सप्तऋषयः सम्वतं आधारीकृत्य कालगणनां समयगणनां वा सहस्र वर्षेभ्य अकुर्वन्‌।

ग्रेगोरियन्‌ गणनानुसरं अधुना ईसापूर्व २०२० वर्षात्‌ विक्रमसम्वतस्य अनुसारं अधुना अपि २०७७ वर्षे भवति। परन्तु कश्मीरस्य सप्तऋषि सम्वतस्य अनुसारं ५०९७ वर्षं प्रचलनं भवति। यत्र प्रत्यक्ष प्रमाणं यत्‌ कश्मीरस्य इतिहासं अधुना प्रायतः ५००० वर्षात्‌ अभवत्‌। कश्मीर इतिहासं आधारिकृत्य ‘नील मत’ पुराणे अपि कश्मीरस्य गौरवमयी वैदिक इतिहासस्य पुष्टिं करोति।

‘निल मत’ पुराणे ऋषि वैशंपयानस्य तथा अभिमन्युपुत्रः राजा जन्मेजयस्य अपि वार्तालापं, यत्र ऋषि वैशंम्पायनः महाभारतस्य काले राज्यस्य प्रजाणां च वर्णनं कृतवान्‌। तत्र कश्मीरस्य राजा गोनन्द-१, राज्ञी यशोमती तथा तस्या पुत्रः गोनन्द-२स्य अपि वर्णनं अभवत्‌। एतस्य अतिरिक्तं विश्वस्य प्रथम इतिहासकारः कल्हणः कश्मीरस्य ऐतहासिक घटणानां वर्णनं स्व ग्रन्थः राजतरङ्गिनी पुस्तके वर्णितवान्‌। सोऽपि कश्मीर निवासी आसीत्‌।

इतिहास लिखनस्य निरन्तरं सरितायाः क्रमशः जोनराज: श्रीधरः च चिरकालं व्यवस्थितं कृतवान्‌।

नमस्ते शारदे देवी कश्मीरपुर वासिनी।
त्वामहम्‌ प्रार्थये नित्यं विद्यादानं च देही में॥

कश्मीरस्य विद्यादात्री मा शारदायाः निवास-स्थानं इति मन्यते/ कथयति। अतः काश्मीरं शारदाप्रदेशः अपि कथयते। कृष्णानदी तटे निर्मितं कश्मीरस्य पुरातन विश्वविद्यालयः तथा मन्दिर परिसरस्य शारदा पीठस्य ख्याती सुदूर प्रसारितः आसीत्‌। आदिशंकरः शारदापीठस्य दक्षिणद्वारं उन्मोचनान्तरं शारदायाः साक्षातकारं कृत्वा शंकराचार्यः नान्मा नामितः अभवत्‌। कश्मीरस्य भुमै बहबः साहित्यकाराः जन्मग्रहणं कृतवान्‌। संस्कृतसाहित्यजगती व्यवहारिकी परमार्थिकी च संदर्भे कश्मीरस्य दार्शनिक योगदानं अद्वितीयं इति स्वीकृवन्ति।

पाणिनीअष्टाध्यायी, पतंजलीमहाभाष्य, आचार्य अभिनव गुप्तस्य कश्मीर-शैव दर्शनं, सौन्दर्य शास्त्रं, न्याय शास्त्रं इव ४०तः अधिकग्रन्थानि अन्तराष्ट्रीय विश्वविद्यालये शौधस्य विषयः आसीत्‌। इतः परं क्षेमेन्द्रस्य व्यङ्गनाटकं अनेक ग्रन्स्थानी च कश्मीरी प्रदेशे उत्पन्नं अभवत्‌। अतः एतानि ग्रन्थानि कश्मीर प्रदेशे उत्पन्नः शारदा लिपि माध्यमेन लिखिताभुत्‌। सहस्र पाण्डुलिपि माध्यमेन एतस्य प्रमाणं प्राप्तम्‌।

मध्यवर्त्तिकाले काश्मीरस्य सन्थः जिदृसि लल्लेश्वरी, माताऋपि भावान्या: दोहा वाक्यश्च शारदा लिपि माध्यमेन उपलब्धः। शारदा लिपे अवतरण: गुप्त: ब्राह्मीः पश्चिमीशाखायां अभवत्‌। इतिहासकारस्य मतं यत्‌ शारदालिप्या प्रचार प्रसारं च ई:पुः ८ तमे शताद्यां अभवत्‌। परन्तु अधुना प्राप्तः भव्यशाली इति पाण्डुलिपि यत्र शुन्यस्य अपि वर्णना उपलब्धा, शारदा लिपि माध्यमेन लिखनं अभवत्‌। पाण्डुलिपे: कार्वन डेटिंग तस्य त्रिंस शताब्दी ईसा पूर्वं इति कथयति। शारदा लिपे प्रचलनं कश्मीरं पंजाबं, हिमाचलं कांगड़ां, जम्मु , तिब्बत च क्षेत्रे उपलब्धः। शारदालिपि, टांकरी, लाहण्डा, गुरुमुखी, तिब्बतीय लिपिनां जननी।

१३४९ ई ख्रीष्टाब्दे कश्मीरस्य आद्य इस्लामिक शासकः शाह मीर: आसीत्‌। तस्य शतवर्षात्‌ प्राक्‌ संस्कृतस्य अपीच शारदायाः प्रचलनं राजकीय कार्ये अभुत्‌। परन्तु १४५० ई. इति ख्रीष्टाब्दे सिकन्दरः बृतशिकन अपीच तस्य पुत्रः जैनुलब्दीन संस्कृतं परित्यज्य सौद्धान्तिकस्य प्रयोगं फार्सी तथा नस्तालिकं कश्मीरे प्रवलतया प्रचलनं कृतवान्‌।

शारदा लिपि शैक्षणिक संस्थायाः व्यवस्थागत माध्यमेन पृथकीकृतम्। एतत्‌ लिपे अभिरक्षकाणां कश्मीर पण्डितानां कृते कृर धर्मान्तरिकरणस्य सम्मुखिनं कृतवान्‌। अतः कश्मीर पण्डितानां कश्मीरतः पलायन प्रक्रिया १४४८ तः प्रारम्भं अभुत्‌। अतः परं कश्मीर पण्डिताः क्रमशः प्रति शताब्दै प्रलायनं उत्‌पिड़नं च सहनं कृतवान्‌। कश्मीरस्य संस्कृतै सह तत्रतः शारदालिपि अपि क्षतिग्रस्तः अभवत्‌।

कश्मीर पण्डितसम्प्रदायाः १९५० दशकं यावत्‌ गुप्तरूपेण जातकं, ज्योतिषं कर्मकाण्डं च माध्यमेन शारदा लिपे उद्‌जीवितं आसीत्‌। शनैः शनैः शारदालिपेज्ञाता लुप्तायाता अपिच १९९० दशके कश्मीरी पण्डिताः सातवैं पलायनात्‌ परं एसा लिपि लुप्तप्रायः अभवत्‌।

विभिन्न शारदा सफ्टवेर माध्यमेन शारदा लिपि पुनरूद्धारं अभवत्‌ तथा लिपिरूपि माता शारदायाः पुनः मुखरितं कृत्वा एकः प्रयासः प्रक्रिया भवति। एतत्‌ शारदा लिपि माध्यमेन ग्रन्थानां रचना, समाचारपत्र, पत्रिकाः नियमितरूपेण प्रकाशितं भविष्यति।

( ** एतदेव लिखनं नव दिल्लीस्थ श्रीमती ज्योति कौल महोदया उपस्थापनं कृतवती )